(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.38. अध्यायः 038
Mahabharata - Vana Parva - Chapter Topics
अर्जुनेन हिमवच्छिखरे तपश्चरणम् ॥ 1 ॥ पार्थतपोभीरुभिर्महर्षिभिः प्रार्थितेन महादेवेनाश्वासनपूर्वकमृषीणां प्रति निवर्तनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

जनमेजय उवाच। 3-38-0x(1868)(17222)
भगवञ्श्रोतुमिच्छासमि पार्थस्याक्लिष्टकर्मणः।
विस्तरेण कथामेतां यथाऽस्त्राण्युपलब्धवान् ॥ 3-38-1(17223)
कथं च पुरुषव्याघ्रो दीर्घबाहुर्धनंजयः।
वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् ॥ 3-38-2(17224)
किंचानेन कृतंतत्रवसता ब्रह्मवित्तम।
कथं च भगवान्स्थाणुर्देवराजश्च तोषितः ॥ 3-38-3(17225)
एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम।
त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ॥ 3-38-4(17226)
अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः।
भवेन सह संग्रामं चकाराप्रतिमं किल।
पुरा प्रहरतांश्रेष्ठः संग्रामेष्वपराजितः ॥ 3-38-5(17227)
यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात्।
शूराणामपि पार्थानां हृदयानि चकम्पिरे ॥ 3-38-6(17228)
यद्यच्च कृतवानन्यत्पार्थस्तदस्विलं वद ॥ 3-38-7(17229)
न ह्यस् निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये।
चरितं यस्य शूरस्य तन्मे सर्वं प्रकीर्तय ॥ 3-38-8(17230)
वैशम्पायन उवाच। 3-38-9x(1869)
कथयिष्यामि ते तात कथामेतां महात्मनः।
दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् ॥ 3-38-9(17231)
गात्रसंस्पर्शसंबद्धां त्र्यम्बकेण महाहवे।
पार्थस्य देवदेवेन शृणु सम्यक्समागमम् ॥ 3-38-10(17232)
युधिष्ठिरनियोगात्स जगामामितविक्रमः।
शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम् ॥ 3-38-11(17233)
दिव्यं तद्धनुरादाय खङ्गं च पुरुषर्षभः।
महाबलो महाबाहुरर्जुनः कार्यसिद्धये ॥ 3-38-12(17234)
दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति।
ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः ॥ 3-38-13(17235)
त्वरया परया युक्तस्तपसे धृतनिश्चयः।
वनं कण्टकितं घोरमेक एवान्वपद्यत ॥ 3-38-14(17236)
नानापुष्पफलोपेतं नानापक्षिनिनादितम्।
नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥ 3-38-15(17237)
ततः प्रयाते बीभत्सौ वनं मानुषवर्जितम्।
शङ्खानां पटहानां च शब्दः समभवद्दिवि ॥ 3-38-16(17238)
पुष्पवर्षं च सुमहन्निपपात महीतले।
मेघजालं च सततं छादयामास सर्वतः ॥ 3-38-17(17239)
सोतीत्य वनदुर्गाणि सन्निकर्षे महागिरेः।
शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा ॥ 3-38-18(17240)
तत्रतत्र द्रुमान्फुल्लान्विहगैर्वल्गुनादितान्।
नदीश्च विपुलावर्ता वैदूर्यनीलसंनिभाः ॥ 3-38-19(17241)
हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा।
पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः ॥ 3-38-20(17242)
मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः।
पुण्यशीतामलजलाः पश्यन्प्रीतमनाऽभवत् ॥ 3-38-21(17243)
रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा।
तपस्युग्रे वर्तमान उग्रतेजा महामनाः ॥ 3-38-22(17244)
दर्भचीरं निवस्याथ दण्डाजिनबिभूषितः।
शीर्णं च पतितं भूमौ पर्णं समुपभुक्तवान् ॥ 3-38-23(17245)
पूर्णेपूर्णे त्रिररात्रे तु मासमेकं फलाशनः।
द्विगुणेनैव कालेन द्वितीयं मासमत्ययात् ॥ 3-38-24(17246)
तृतीयमपि मासं स क्रमेणाहारमाचरन्।
चतुर्थे त्वथ संप्राप्ते मासे भरतसत्तमः ॥ 3-38-25(17247)
वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः।
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रधिष्ठितः ॥ 3-38-26(17248)
सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः।
विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः ॥ 3-38-27(17249)
ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम्।
विवेदयिषवः पार्थं तपस्युग्रे समास्थितम् ॥ 3-38-28(17250)
नीलकण्ठं महादेवमभिवाद्य प्रणम्य च।
सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह ॥ 3-38-29(17251)
एकः पार्थो महातेजा हिमवत्पृष्ठमाश्रितः।
उग्रे तपरसि दुष्पारे स्थितो धूमापयन्दिशः ॥ 3-38-30(17252)
तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम्।
संतापयति नः सर्वानसौ साधु निवार्यताम् ॥ 3-38-31(17253)
तेषां तद्वचनं श्रुत्वा मुननां भावितात्मनाम्।
उमापतिर्भूतपतिर्वाक्यमेतदुवाच ह ॥ 3-38-32(17254)
न वो विषादः कर्तव्यः फल्गुनं प्रति सर्वशः।
शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः ॥ 3-38-33(17255)
अहमस्य विजानामि संकल्पं मनसि स्थितम्।
नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः।
यत्तस्य काङ्क्षितं प्राप्तुं तत्करिष्येऽहमद्य वै ॥ 3-38-34(17256)
वैशम्पायन उवाच। 3-38-35x(1870)
तच्छ्रुत्वा शर्ववचनमृषयः सत्यवादिनः।
प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमम् ॥ 3-38-35(17257)

इति श्रीमन्महाभारते अरण्यपर्वणि कैरातपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-38-12 खङ्गं च कनकत्सरुं इति झ. पाठः। तत्र कनकत्सरुं स्वर्णमुष्टिंमित्यर्तः ॥ 3-38-13 ऐन्द्रिरर्जुनः ॥ 3-38-14 कण्टकितं कण्टकाक्रान्तम् ॥ 3-38-23 दर्भचीरं तृणमयं वासः। निवस्य परिधाय ॥ 3-38-24 द्विगुणेन षट्रात्रेण अत्ययात् अतिवाहितवान् ॥ 3-38-25 पक्षेणाहारमाचरन् इति झ. पाठः ॥ 3-38-26 निरालम्बो निराश्रयः ॥ 3-38-30 धूमापयन् धूमवतीरिव कुर्वन् ॥ 3-38-34 संकल्पं मनोरथम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.